Custom image

Teacher

संस्कृत भाषाया: महत्त्वम्

भाषा किम् भवति “भाष्यते इति भाषा” अर्थात् जना: यस्मिन् स्व विचारान् प्रकटी कुर्वन्ति सैव भाषा भवति ।प्राचीने भारते संस्कृतम् एव जनसाधारणस्य भाषा आसीत् ,परन्तु कालक्रमेण तस्या: स्थानं विभिन्न क्षेत्रेषु भिन्न भिन्न भाषाभ्य: ग्रहीतम् ।अधुना विचाराणां आदान प्रदानं सर्वेभ्य: संस्कृत भाषायां न क्रियते ।परं अस्य इदम् अर्थं कदापि नास्ति यत् अस्या: भाषाया: क्षय: जात: । केचन जना: इमां भाषां मृत भाषां अपि कथयन्ति परं ते इदं तथ्यं विस्मरन्ति यत् संस्कृत भाषा सर्वाषां भाषाणां जननी अस्ति, संस्कृतं न केवलं भाषा अस्ति अपितु अस्यां अस्माकं संस्कृति: सुरक्षित रूपेण संरक्षितास्ति।कथ्यते च :

“भारते प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा”

आचारस्य शुभाशुभस्य ज्ञान विज्ञानस्य कर्त्त्व्याकर्त्त्व्यस्य निधि: अस्ति संस्कृतम् । यत् इह अस्ति तत् सर्वमेव अन्यत्र अस्ति यदन  इह अस्ति न तत् क्वचित् । वेदा: संस्कृतभाषायां रचित प्रथम ग्रन्था: सन्ति ।वेदार्थनुशीलनात् ज्ञायते यत् वेदा: हि विविध ज्ञान विज्ञान राशय: ,संस्कृतेराधाररूपा: ,कर्त्तव्याकर्त्तव्य बोधका:,शुभाशुभनिदर्शका: ,जीवनस्योन्नायका: ,विश्वहितसंपादका: ,आचारसंचारका: नैराश्यविनाशका: ,चतुर्वर्गावाप्तिसोपानस्वरूपाश्च सन्ति ।

भिन्न भिन्न कालेषु भारतीयै: स्वविचारै: आचार तथा संस्कृति शिक्षा द्वारा विश्वस्य कृते ज्ञानं प्रदत्तम् स्वामी विवेकानंद प्रभृतिभि: विद्वद्भि: इदं कार्यं सम्य्का रूपेणकृतम्, कथितम्य अपि :-

एतद्देशप्रसूतस्य सकाशादग्रजन्मन: ।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा: ॥

अधुनातनकाले जना: इदं तथ्यं विस्मरन्ति यत् वेदेषु सर्वमेव अस्ति ।यत्किंचिदपि विकासं जनै: अधुना पर्यन्तं कृतं तत् सर्वं वेदेषु विस्तृत रूपेण पवर्णितं अस्ति ।चिकित्सा क्षेत्रे वैदिक काल: समृद्ध: आसीत् वेदेषु शल्य चिकित्सायां प्रयुक्त सूक्ष्मातिसूक्ष्म उपकरणानां वर्णनं प्राप्यते ।गणित क्षेत्रे वैदिक गणितस्य गणना पद्धति: अति तीव्रा अस्ति येन संगणक गत्या गणना कर्तुं शक्यते । खगोलशास्त्र विषये अपि आर्यभट्ट द्वारा विविध प्रयोगानां उल्लेखं अत्र विद्यते । सर्वप्रथमम् आर्यभट्टेन एव कथितम् यत् सूर्य: अचल: पृथ्वी च चला । अर्थशास्त्रे चाणक्य द्वारा लिखित अर्थशास्त्रम् महत्त्वपूर्ण ग्रन्थं अस्ति ।

भारतस्य राष्ट्रीय चिन्हे संस्कृते एव उल्लिखितम् :- “सत्यमेव जयते”  ।संस्कृत भाषायां विस्तृत ज्ञानं निहितं अस्ति,एतस्मात् कारणात् एव सर्वेषां विभागानां ध्येय वाक्यानि वेदनि:सृतानि सन्ति यथा भारतीय जीवन बीमा निगमस्य ध्येय वाक्यमस्ति : ‘योग क्षेमं वहाम्यहम्’’ ।केन्द्रीय विद्यालस्य ध्येय वाक्यम अस्ति “’तत् त्वं पूषन् अपावृणु’ एवमेव अन्येषां विभागानां ।

अस्माकं देशस्य विकासाय, स्व संस्कृते: संरक्षणाय एवं विश्व बन्धुत्व स्थापनाय संस्कृतम् अवश्यं पठनीय॥

“जयतु संस्कृतं जयतु भारतम्”

सोमेश्वर सिंह:

प्रशिक्षित स्नातक अध्यापक:

संस्कृतम्